पृष्ठम्:श्रुतबोधः.djvu/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८
श्रुतबोधः


 नन्वेकादशतस्त्रयस्तदनु चेदष्टादशाद्यौततः ।
 मार्तण्डैर्मुनिभिश्च यत्र विरतिः पूर्णेन्दुबिम्बानने
 तद्वृत्तं प्रवदन्ति काव्यरसिका: शार्दूलविक्रीडितम् ४२)॥

 अन्वयः-हे प्रियतमे ! चेत् आद्याः त्रयः (वर्णाः) गुरवः ( स्युः) षष्ठः तथा अष्टमः च ( गुरुः) ( स्यात् ) चेत्, तदनु एकादशतः त्रयः ततः अष्टादशाद्यौ (वर्णौ ) ( इत्येते वर्णाः गुरवः स्युः ) हे पूर्णेन्दुबिम्बानने यत्र मार्तण्डैः मुनिभिः च विरतिः (स्यात् ) काव्यरसिका: तद्वृत्तं शार्दूलविक्रीडितं प्रवदन्ति ॥ ४२ ॥

 अर्थः- हे प्रियतमे--अतिशयेन प्रियो ! चेत् - यदि आद्याः- पूर्वे, त्रयः - प्रथमादित्रयः वर्णाः गुरवः - दीर्घाः स्युः । षष्ठः, तथा अष्टमश्च वर्णः गुरुः स्यात् । चेत् -यदि तदनु- तत्पश्चात् एकादशतस्त्रयः-द्वादरात्रयोदश चतुर्दशाः ततः - तदनन्तरं अष्टादशाद्यौ-षोडशसप्तदशौ वर्णौ गुरवः स्युः। हे पूर्णेन्दुबिम्बानने, पुर्णश्चासा विन्दुः पुर्णेन्दुस्तस्य बिम्बवदाननं - मुखं यस्यास्तत्सग्बुद्धौ । यत्र - यस्मिन् पद्ये, मार्तण्डैः- द्वादशभिः, मनि