पृष्ठम्:श्रुतबोधः.djvu/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२
श्रुतबोधः


मालिनी छन्दः।


 प्रथममगुरु षट्कं विद्यते यत्र कान्ते-
 तदनु च दशमं चेदक्षरं द्वादशान्त्यम् ।
 गिरिभिरथ तुरङ्गैर्यत्र कान्ते विरामः
 सुकविजनमनोज्ञा मालिनी सा प्रसिद्धा।। ३८॥

 अन्वयः हे कान्ते, यत्र प्रथमम्, षट्कम,तदनु, दशमम्, द्वादशान्त्यम् च अक्षरम् अगुरु चेत् विद्यते । हे कान्ते गिरिभिः अथ तुरङ्गैः यत्र विरामः सा सुकविजनमनोज्ञा मालिनी प्रसिद्धा ॥ ३८॥

 अर्थः - हे कान्ते - प्रिये, यत्र – यस्मिन् छन्दसि, प्रथमं षटकम् – पादेषु आदितः षडक्षरम्, तदनु -- तदनन्तरं दशमं - तत्संख्याकं द्वादशान्त्यं, - त्रयोदशञ्चाक्षरं - वर्णः चेत् यदि अगुरु-लघु, विद्यते - भवति । हे कान्ते -प्रिये, गिरिभिः - अष्टभिः अथ-अनन्तरं तुरङ्गैः, सप्तभिः, यत्र-यस्मिन पद्ये, विराम: -विश्रामः,सा-असौ, सुकविजनानां-शोभनविद्वज्जनानां मनोज्ञा-मनोहारिणी,