पृष्ठम्:श्रुतबोधः.djvu/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१
संस्कृत तथा भाषाटीका सहितः


 यत्राष्टमं च चदशमान्त्यमुपान्त्यमन्त्यम् ।
 कामाङ्कुशाङ्कुशितकामिमतङ्गजेन्द्रे ?
 कान्ते वसन्ततिलका किल तां वदन्ति ॥३७॥

 अन्वयः-हे कामाङ्कुशाङ्कुशितकामिमतङ्गजेन्द्रो यत्र चेत् आद्यं द्वितोयम्, तच्चतुर्थं अष्टमं दशमान्त्यं उपान्त्यं अन्त्यं(अक्षर)गुरु(स्यात्) हे कान्ते किल तां वसन्ततिलकां वदन्ति ॥ ३७॥

 अर्थः-काम:-मदन, एवाङकुशस्तेनाङकुशिता:-वशीकृताःकामिनः-कामुका एव मतङ्गजेन्द्राः - दिग्गजा यथा तत्सम्बुद्धौ ! यत्र - यस्मिम् पद्ये, चेत् – यदि, आ्द्यं-प्रथमं द्वितीयं- द्वित्वसंख्याविशिष्टं, तत् - तथा चतुर्थं - तुर्यं, अष्टमं, दशमान्त्यं - एकादशम्, उपान्त्यं -त्रयोदशं, अन्त्यं - चतुर्दशञ्च(अक्षरं)गुरु- दीर्घं (स्यात्} । हे कान्ते- प्रिये, किल-निश्चयेन तां-अमुम्, वसन्ततिलकां-तदाख्यां वृत्तिं, वदन्ति - ब्रवन्ति । च. अ.१४, ग०,त, भ,ज,ज,गु, गु, ssl,sII,IsI,ISI,s,s, ॥ ३७॥

 भाषा-हे कमिनि ! हे कांते ! जिस श्लोक में पहिला,दूसरा,चौथा, आठवां, ग्यारहवां, तेरहवां और चौदहवां अक्षर दीर्घ हो उसको पण्डित लोग वसंत तिलका छन्द कहते हैं॥३०॥