पृष्ठम्:श्रुतबोधः.djvu/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०
श्रुतबोधः-


अथ अष्टमं नवान्त्यं (गुरु) स्यात् द्वे च अन्त्ये गुरुविरतौ ( स्याताम् ) महेशनेत्रदिग्भिः विश्रामः भवति । हे सुभगे ननु सा प्रहर्षिणी विज्ञेया ॥३६॥

 अथ:-हे सुभाषिते-सुवाणि ! चेन्-यदि, आद्यं-आदौ स्थितम्, त्रितयं-वर्णत्रयं, अथ-अनन्तरं, अष्टमं-तत्संख्याकं, नवान्त्यं - दशमं गुरु स्यात् – भवेत् । द्वे - युगलं च, अन्त्ये - अवसानस्थिते द्वादशत्रयोदशे च गुरुविरतौ-दीर्घान्वितौ स्याताम् । महेशनेत्रः - त्रिभिः दिग्भिः-दशभिः (वर्णैः ) विश्रामः – यतिः, स्यात्-भवेत् । हे सुभगे शोभनैश्वर्यशालिनि, ननु-निश्चयेन, सा-असौ, महर्षिणी-तन्नामिका वृत्तिः, विज्ञेया-बोध्या । प्रहर्षिणी । च. अ.१३,ग. म, न, ज,र,गु, यति:३,१०, sss,111,ISI,SIS,s, ॥३६॥

 भाषा-हे मृदु भाषण करनेवाली ! हे सुभगे !जिसमें आदि के तीन तथा आठवां, दशवां, बारहवां, और तेरहवां अक्षर दीर्घ हो, तीसरे और दशवें अक्षर पर विराम हो उसको प्रहर्षिणी छन्द जानना ॥ ३६ ॥

वसन्त तिलका छन्दः

आद्यंद्वितीयमपि चेद्गुरु तच्चतुर्थ-