पृष्ठम्:श्रुतबोधः.djvu/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९
संस्कृत तथा भाषाटीका सहितः


नवमं-तत्संख्याकं, तथा-तेनैव प्रकारेण, सान्त्यम् - त्रयोदशाक्षरसहितं, दशान्तिकम् – एकादशं, गुरु -दीर्घं, भवेत् - स्यात्। यदि-चेत्, युगैः- चतुर्भिः ग्रहै:- नवभिरक्षरैः, विरतिः - विश्रामः ( भवेत् ) हे अमृतलते । अमृतस्य-पीयुषस्य लता इव स्थिते ! हि-निश्चयेन, सा-असौ, प्रभावती- तदाख्या वृत्तिः, लक्षिता - कथिता । प्रभावती- च. अ.१३ ।s1, SI|, IIs, 1s1,S ग०, ज, भ, स, ज, गु, यतिः ४,६, ॥३५॥


 भाषा-हे अमृतलते ! जिसमें आदि के दो अक्षर अर्थात् पहिला और दूसरा चौथा नववां ग्यारहवां तथा अन्त्य का अक्षर दीर्घ हो और जहां चौथे और दसवेंअक्षर पर विराम हो, उसको प्रभावनी छन्द जानना ॥ ३५ ॥


प्रहर्षिणी् छन्दः।


 आद्यं चेत् त्रितयमथाष्टमं नवान्त्यं-
 द्वे चान्त्ये गुरुविरतौ सुभाषिते स्यात् ।
 विश्रामो भवति महेशनेत्रदिग्भि-
 र्विज्ञेया ननु सुभगे प्रहर्षिणी सा ॥३६॥

 अन्वयः-हे सुभाषिते ! चेत् आद्यं त्रितयं