सामग्री पर जाएँ

पृष्ठम्:श्रुतबोधः.djvu/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७
संस्कृत तथा भाषाटीका सहितः


{{c|इन्द्रवंशा छन्दः

 यस्यामशोकाङ्कुरपाणिपल्लवे
 वंशस्थपादा गुरुपूर्ववर्णकाः।
 तारुण्यहेलारतिरङ्गलालसे ।
 तामिन्द्रवंशां कवयः प्रचक्षते ॥ ३४ ॥


 अन्वयः-हे अशोकाङ्कुरेपाणि पल्लवे ! यस्यां वंशस्थपादाः गुरुपूर्ववर्णकाः (स्युः) हे तारुण्यहेलारतिरङ्गलालसे ! कवयः तां इन्द्रवंशां प्रचक्षते ॥ ३४॥

 अर्थः- हे अशोकाङ्कुरपाणिपल्लवे ! अशोकस्य-वृक्षविशेषस्य अङ्कुरवत् - कलिकावत् पाणिपल्लवौ-करौ यस्यास्तत्सम्बुद्धौ ! यस्यां-वृत्तौ, वशस्थपादाः-वंशस्थछन्दसश्चत्वारश्चरणाः, गुरुपूर्ववर्णकाः--आद्यवर्णाः गुरवः स्युः ! हे तारुण्य हेलारतिरङ्गलालसे । तारुण्यस्य-यौवनस्य हेंलाभिः- -क्रीडाभिः रतिरङ्गे-सुरतसंग्रामे लालसाऽभिलाषा यस्यास्तत्सम्बुद्धौ । कवयः - काव्यज्ञाः ताममुम् इन्द्रवंशां- एतदाख्यं छन्दः प्रचक्षते - कथ