पृष्ठम्:श्रुतबोधः.djvu/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६
श्रुतबोधः-

 मदोल्लसद्भ्रू्जितकामकार्मुके ।
 वदन्ति वंशस्थमिदं बुधास्तदा ॥ ३३ ॥

 अन्वयः-हे मदोल्लसद्भ्रूजितकामकार्मुंके! चेत् उपेन्द्रवज्राचरणेषु उपान्त्यवर्णाः यदा लघवः कृताः ( स्युः) तदा बुधाः इदं वंशस्थं वदन्ति ३३

 अर्थ:-हे मदोल्लसद्भ्रूजितकामकार्मुके ! मदेन उल्लसद्भ्यां भ्रूभ्यां जितं कामस्य कामुर्कं- धनुर्यया सा तत्सम्बुद्धौ । चेत् – यदि, उपेन्द्रवज्राचरणेषु - एतच्छन्दस:, चतुर्षु चरणेषु, उपान्त्यवर्णाः-अन्त्यप्तमीपस्थितान्यक्षराणि, यदा- यस्मिन् पद्ये, लघवः-ह्रस्वाः, कृता:-निहिताः, ( स्युः) तदा - तस्मिन् पद्ये, बुधाः -पण्डिताः इदं - एतच्छन्दः, वंशस्थं - एतन्नामकं, वदन्ति - कथयन्ति ।

वंशस्थम् । च. अ. १२ ग०, ज, त, ज, र, यतिः ५, ७, ISI,SSI ।SI,SIS, ॥३३॥

 भाषा-हे मद से शोभायमान भृकुटी के विलास से काम देव के धनुष को जीतनेवाली ! यदि उपेंद्रवज्रा के चारो चरणों में उपांत्य वर्ण अर्थात् बारहवें अक्षर के पहिले का ग्यारहवां अक्षर ह्रस्व हो, और बारहवां अक्षर गुरु हो तो पंडित लोग उसको वंशस्थ छंद कहते हैं ॥ ३३ ॥