पृष्ठम्:श्रुतबोधः.djvu/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५
संस्कृत तथा भाषाटीका सहितः


 अन्वयः-हे कमलेक्षणे,यदि, द्रुतविलम्बितकस्य च, आद्यतृतीययोः पादयोः प्रथमाक्षरं न चेत्, हे सुन्दरि तदा सा हरिणीप्लुताभवति॥ ॥३२॥

 अर्थ:-हे कमलेक्षणे । कमलवत् - पद्मवत् ईक्षणे- नेत्रे- यस्यास्तत्सम्बुद्धौ, यदि - चेत्, द्रुतविलम्बित कस्य-तदाख्यछन्दसः, च-पादपूरणे, आद्यतृतीययोः- प्रथमतृतीययोः पादयोः - चरणयोः, प्रथमाक्षर - आद्यम- क्षरं, न चेत् - नो स्यात् । हे सुन्दरि - शुभांगे,तदा-तस्मिन् काले सा- असौ, हरिणीप्लुता - तदाख्यं छन्दः भवति जायते । हरिणोप्लुता। च० १, ३, अ० ११, ग. स, स स, ल, गु, IIS, IIS, IIS, s,i,s, २, ४, अ० १२, ग. न, भ,भ,र Ill,S11, SIl, SIS ॥।३२॥ .  भाषा-हे कमलनयने ! हे सुंदरि! यही द्रुतविलम्बितछंद के पहिले और तीसरे पाद को आदि का अक्षर न हो तो वह हरिणीप्लुता छंद हो जाता है ॥ ३२ ॥

वंशस्थं वृत्तम् ।

 उपेन्द्रवज्राचरणेषु सन्ति चे-
 दुपान्त्यवर्णा लघवः कृता यदा।