पृष्ठम्:श्रुतबोधः.djvu/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४
श्रुतबोधः-


चेत् गुरु न ( स्यात् ) (सा) कविभिः प्रमिताक्षरा इति कथिता ॥ ३१ ॥

 अर्थः-यदि-चेत्, तोटकस्य - तदाख्यत्तस्य, पञ्चमकं-- पञ्चमम्, अक्षरकं-अक्षरम्, गुरु-दीर्घं, विहितम् - प्रयुक्तं भवेत् । हे विलासिनि, विलासो-विभ्रमोऽस्ति अस्यास्तत्सम्बुद्धो, हे अबले- नायिके, रससंख्य, कं - षष्ठं चेत् - यदि, गुरु-दीर्घं, न - नहि स्यात्, (सा) कविभिः - पण्डितैः, प्रमिताक्षरा-तन्नामकं छन्दः, इति - इत्थम् - कथिता--प्रोक्ता । प्रमिताक्षरा । च० अ १२, ग०, स, ज, स, स ||S,|s|,||s, ||s, ॥३१॥

 भाषा-हे विलास करनेवाली ! हे अबले । यदि तोटक छंद का पांचवां अक्षर गुरु हो और छटवां अक्षर लघु हो तो कवियों ने उसको प्रमिताक्षरा छंद कहा है ॥ ३१ ॥

हरिणीप्लुता छन्दः।

 प्रथमोक्षरमाद्यतृतीययो-
 र्द्रुतविलम्बितकस्य च पादयोः
 यदि चेन्न तदा कमलेक्षणे
 भवति सुन्दरि सा हरिणीप्लुता ॥३२॥