पृष्ठम्:श्रुतबोधः.djvu/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
33
संस्कृत तथा भाषाटीका सहितः


कृशं - तनु, उदरं-मध्यभागो यस्यास्तत्सम्बुद्धौ, यत्र-यस्मिन् पद्ये, चतुर्थकम्- तुर्यम्,सप्तमकम्-सप्तमम्, तथा-तेनैव प्रकारेण,दशमम्-तत्संख्याक, तथैव - तेनैव रीत्या, विरतिजं-अन्त्यं द्वादशं चाक्षरं, गुरु-दीर्घं स्यात्तदा विचक्षणैः-पण्डितैः, द्रुतविलम्बितमिति - तन्नामधेयेन उपदिश्यते-कथ्यते ।

द्रुतविलम्बितम् । च. अ. १२, ग. न, भ, भ. र ।il,SiI,SII,sis, ॥३०॥


 भाषा-हे कृशोदरि ? जिस छंद में चौथा, सातवां, दशवां, और अन्त्य का ( बारहवां ) अक्षर गुरु (दीर्घ)हो, पंडित लोग उसको द्रुतविलम्बित छंद कहते हैं॥ ३० ॥

प्रमिताक्षरा छन्दः॥

 यदि तोटकस्य गुरु पञ्चमकं
 विहितं विलासिनि तदक्षरकम् ।
 रससंख्यकं गुरु न चेदबले
 प्रमिताक्षरेति कविभिः कथिता ॥ ३१॥

 अन्वयः यदि तोटकस्य पञ्चमकं अक्षरकं गुरु विहितम् । हे लासिनि, हे अबले। रससंख्यकं