पृष्ठम्:श्रुतबोधः.djvu/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९
संस्कृत तथा भाषाटीका सहित :

-

 तद्वद्बिम्बोष्ठि न्यस्त एकादशाद्यः ॥
 बाणैर्विश्रामस्तत्र चेद्वा तुरङ्गै-
 र्नाम्ना निर्दिष्टा सुभ्रु सा वैश्वदेवी ॥२७॥

 अन्वयः-हे बाले यत्र सप्तमः तद्वत् हे बिम्बोष्ठि एकादशाद्यः वर्णः ह्रस्व न्यस्तः चेद्वा तत्र बाणैः तुरङ्गैः ( वर्णैः ) विश्रामः ( स्यात् )हे सुभ्रु सा नाम्ना वैश्वदेवी निर्दिष्टा ॥ २७ ॥

 अर्थ:-हे बाले-षोडशवार्षिके,यत्र - यस्मिन्, छन्दसि सप्तमो वर्ण:- सप्तमाक्षरम्, तद्वत् - तथैव, हे बिम्बोष्ठि! बिम्बफलवदोष्ठौ यस्याः तत्सम्बुद्धौ, एकादशोद्य:-दशमोवर्णः,अक्षरं ह्रस्वः - लघु, न्यस्त:-निवेशितः । चेत्-यदि, तत्र-तस्मिन्, पद्ये,बाणैः -पञ्चभिः। तुरङ्गैः-सप्तभिश्चक्षारैः, विश्रामः-यतिस्स्यात्तर्हि हे सुभ्रु, सुष्ठु-शोभनौ भ्रुवौ यस्याः तत्सम्बुद्धौ, सा-वृत्तिः नाम्ना- अभिधानेन वैश्वदेवी-तन्नामकं छन्दः निर्दिष्टा-कथिता । वैश्वदेवी ।च. अ०१२ ग० म,म.य,य,यतिः ५,७,sss,sss,ऽऽ,।ऽऽ ॥२७॥

 भाषा-हे बाले, हे बिम्बाफल के सदृश ओष्ठवाली,जिस छन्द में सातवां और दशवां अक्षर न्हस्व हों, और हे सुन्दर