पृष्ठम्:श्रुतबोधः.djvu/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
श्रुतबोधः

़ - भ्रू वाली जिस में पांचवें और सातवें अक्षर पर विराम हो उसको वैश्वदेवी छन्द कहते हैं ॥ २७ ॥

तोटकवृत्तम् ।

 सतृतीयकषष्ठमनन्तरते नवमं विरतिप्रभवं गुरु चेत् । घनपीनपयोधरभारनते ननु तोटकवृत्तमिदं कथितम् ॥ २८॥

 अन्वयः-हे अनन्तरते,चेत् सतृतीयकषष्ठं, नवमं विरतिप्रभवं ( अन्त्याक्षरम् ) गुरु ( स्यात् ) हेघनपीनपयोधरभारनते ननु इदं तोटकवृत्तं कथितम् ॥ २८॥

 अर्थः- हे अनन्तरते! अनन्ता- अपरिमिता रतिर्यस्याःसा तत्सम्बुद्धौ,चेत्-यदिसतृतीयकषष्ठं - तृतीयषष्ठाक्षरसहितं नवमं तत्संख्याकमक्षरं, विरतिमभवं- पादानामन्त्यस्थित च गुरु-दीर्घं स्यात्, हे धनपीनपयोधरभारनते ! घनौ -कठिनौ पीनौ- स्थूलौ च पयोधरौ- स्तनौ तयोः भारेण-गौरवेण नता-नम्रीमता तत्सम्बुद्धौ, (तदा) ननु-निश्चयेन, इदं-छन्दः तोटकवृत्तं-एतन्नामकं कतिथं=