पृष्ठम्:श्रुतबोधः.djvu/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८
श्रुतबोधः-


 अन्वयः-हे विनीते यत्र नवमं दशमं च अक्षरं व्यत्ययात् भवति, चेत् प्रोक्तम्,हे एणानयने सा एव असौ कविभिः स्वागतेति कथिता ॥ २६ ॥

 अर्थः -- हे विनीते - नम्र, यत्र वृत्तौ, नवमं दशमं, चाक्षरं -वर्ण, व्यत्ययात् - वैपरीत्यात् (अर्थात् स्योद्धताया वैपरीत्येन नवममक्षरं लघु तथा दशममक्षरं गुरु)भवति जायते, चेत् यदिप्रोक्तम् – कथितम् । हे एणनयने,एणस्य-हरिणस्य नयने इव नयने यस्यास्तत्सम्बुद्धौ, सैवासौ-एषैवेयं, कविभिः –पण्डितैः स्वागता- एतन्नामकं छन्दः कथिता-प्रोक्त। । स्वागता, च० अ० ११ ग० र, न, भ,गु, गु, यतिः ७, ४,SIS, III,sII,s,s,॥२६॥

 भाषा-हे विनयवाली ! हे सुनयने ! जिस ( रथोद्धता )छंद में नौवां और दशवां अक्षर विपर्यय रूप से हो अर्थात् नववां दशवें अक्षर के स्थान में और दशवां अक्षर नववे के स्थान में हो कवियोंने उसको स्वागता छन्द कहा है । रथोद्धाता में नववां दीर्घ और दशवां ह्रस्व है परन्तु इसमें दशवां दीर्घ और नववां ह्रस्व है ॥ २६॥

वैश्वदेवी छन्दः।

ह्रस्त्रो वर्णःस्यात्सप्तमो यत्र बाले ।