पृष्ठम्:श्रुतबोधः.djvu/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७
संस्कृत तथा भाषाटीका सहितः

 दीर्घमिन्दुमुखि यत्र जायते
 तां वदन्ति कवयो रथोद्धताम् ॥२५॥

 अन्वयः-यत्र आद्य, अतः तृतीयकं सप्तमं नवमं च तथा अन्तिमं अक्षरं दीर्घं जायते, हे इन्दुमुखि कवयः तां रथोद्धतां वदन्ति ॥ २५ ॥

 अर्थः-यत्र-यस्यां वृत्तौ, आद्यं - चरणानां, मादिमम्, अतः - अनन्तरम्, तृतीयकं - तृतीयं, सप्तमं नवमं च तथा- एवमेव अन्तिमम् - एकादशं,अक्षरं - वर्णः दीर्घम् - अलघु, जायते - भवति । इन्दुवन्मुखं यस्यास्तत्सम्बुद्धौ,हे इन्दुमुखि ! कवयः - काव्यकर्तारः तां-अमुम् रथोद्धताम् - तन्नामकं छन्दः,वदन्ति – कथयन्ति । रथोद्धता

च० अ० ११, ग.र,न,र,ल,गु, यति' ७, ४,s।s,|||,sis,I,s,

 भाषा-हे चन्द्रमुखी ? जिस छन्द में पहिला, तीसरा,सातवां, नववां, और अन्त्य का (ग्यारहवां ) अक्षर दीर्घ हो,कवीश्वर उसको रथोद्धता छन्द कहते हैं ॥ २५ ॥

स्वागता छन्दः।

 अक्षरंच नवमं दशमं चेद्व्यत्ययाद्भवति यत्र विनीते ॥ प्रोक्तमेणसुनयने यदि सैव स्वागतेति कविभिः कथिताऽसौ ॥२६॥