पृष्ठम्:श्रुतबोधः.djvu/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६
श्रुतबोधः-


 अन्वयः--हे प्रकटीकृतार्थे यदि पुरस्तात् इन्द्र वज्राचरणः ( भवेत् ) अन्ये त्रयः उपेन्द्रवज्राचरणाः ( स्युः) सा मनीषिणा उक्ता विपरीतपूर्वा आख्यानकी स्यात् ॥ २४ ॥

अर्थ:-हे प्रकटीकृतार्थे ! प्रकटीकृतः-प्रकाशितः अर्थः- स्वाभिप्रायो यया सा तत्सम्बुद्धौ, यदि-चेत्. पुरस्तात्- प्रथमः, इन्द्रवज्रावत् चरण:-पाद (भवेत्) अन्ये शेषा त्रयः- द्वीतीय तृतीय चतुर्था उपेन्द्र वज्रावत् चरणाः-पादाः(स्युः ) सा-असौ मनीषिणा-पण्डितेन, उक्ता-कथिता, विपरीत पूर्वाख्यानकी-विपरीताख्यानकी स्यात्-भवेत् । आख्यानकी च० अ० ११,प्रथम चरणः इन्द्रवज्रावत् अन्ये उपेन्द्रवज्राबत् २४

भाषा-हे प्रयोजन को प्रगट करनेवाली यदि पहिला चरण इन्द्रवज्रा का हो और शेष के तीन चरण उपेन्द्रवज्रा छन्द के हो तो पण्डितों ने उसको विपरीताख्यानकी छन्द कहा है ॥२४॥

रथोद्धता छन्दः

 आद्यमक्षरमतस्तृतीयकं
 सप्तमं च नवमं तथान्तिमम्