पृष्ठम्:श्रुतबोधः.djvu/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५
संकृत तथा भाषटीकासहितः


 अर्थः -हेसीमन्तिनी !सीमन्तः-केशवेशःविद्यते यस्या स्तत्सम्बुद्धौ हे चन्द्रकान्ते ! चन्द्रवत्कान्तिर्यस्यास्तत्सम्बुद्धौ, यत्र - वृत्तौ, अनयोः - इन्द्रवज्रोपेन्द्रयोः द्वयोरपि - उभयो रेव पादा:-चरणाः भवन्ति-जायन्ते, यथा-इन्द्रवज्रालक्षणं प्रथमतृतीयपादे द्वितीयचतुर्थपादे तूपेन्द्रवज्रालक्षणं भवति, आद्यैः-पुरातनैः विद्विद्भि-:विचक्षणैः,परिकीर्तिता-प्रोक्ता मा-असो, एषा- इयं, उपजातिः - तदाख्यं छन्दः इति प्रयुज्यताम्-प्रयोगविषयी क्रियताम्. त्वयेति शेषः । उपजातिः च० अ० ११॥ ॥२३॥

 भाषा-हे सुन्दर केशवाली ! हे चन्द्रकांते ! जिस छन्द में इन्द्रवज्रा और उपेन्द्रवज्रा दोनों के चरण हों अर्थात् प्रथम और तृतीय चरण इन्द्रवज्रा के तथा द्वितीय और चतुर्थचरण उपेन्द्रवज्रा के हो उसको प्राचीन कवि उपजाति छन्द कहते हैं ॥२३॥

आख्यानकी छन्दः।

 अख्यनकी स्यात् प्रकटीकृतार्थे
 यदीन्द्रवज्राचरणः पुरस्तात् ।
 उपेन्द्रवज्राचरणास्त्रयोऽन्ये
 मनीषिणोक्ता विपरीतपूर्वा ॥ २४ ॥