पृष्ठम्:श्रुतबोधः.djvu/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४
श्रुतबोधः


वर्णाः-अक्षराणि, लघवः - ह्रस्वाः भवन्ति - जायन्ते । हे अमन्दमाद्यन्मन्दने ! अमन्दः- अधिकः माद्यन् - हर्षं कुर्वन्, मदन:- कामः यस्यां सा तत्सम्बुद्धौ, तदानीं - तर्हि, कवीन्द्र - कविवरैः उपेन्द्रवज्रा-एतन्नामकं छन्दः, कथिता-प्रोक्ता । उपेन्द्र- वज्रा-- ०च० अ० ११, ग० ज, त, ज, गु, गु, यतिः ५,६,isi, ssi, isi,s s, ॥२२॥

भाषा-हे सुन्दर वर्णवाली । यदि इन्द्रवज्रा के चारो चरणों में शुरू के अक्षर हस्व हो तो हे अधिक कामवाली ! कवीश्वर लोग उसको उपेन्द्रवज्रा छन्द कहते हैं ॥२२॥


उपजातिः।

 यत्र द्वयोरप्यनयोस्तु पादाः
 भवन्ति सीमन्तिनि चन्द्रकान्ते ।।
 विद्वद्भिराद्यैः परिकीर्तिता सा
 प्रयुज्यतामित्युपजातिरेषा ॥ २३ ॥

 अन्वयः-हे सीमन्तिनि, हे चन्द्रकान्ते, यत्र तु अनयोः द्वयोः अपि पादाः भवन्ति। आद्यै,विद्वद्भिः परिकीर्तिता सा एषा उपजातिः इति प्रयुज्यताम् ॥ २३ ॥