पृष्ठम्:श्रुतबोधः.djvu/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३
संस्कृत तथाभाषाटीका सहितः


यस्यां-वृत्तौ, त्रि-षट्-सप्तमं अक्षरं-वर्णः,तद्वत्-एवमेव नव तत्संख्याकमक्षरं ह्रस्वं-लघु, स्यात्-भवेत्, हे गत्या-गमनेन, विलञ्जीकृता-तिरस्कृता, हंसस्य कान्ता-हंसी येन तत्सम्बुद्धौ, कवीन्द्रा:-कविश्रेष्ठाः, तामिन्द्रवज्रां-एतन्नामकं छन्दः,ब्रुवते-कथयन्ति- इ. च. अ.११ ग. त, त, ज, गु,गु, यति. ५.६,s's, isi, iss, iss

 भाषा-हे सुन्दरजंघावाली ! हे गति से हंसी कोलज्जित करनेवाली ! जिस छन्द में तीसरा, छठवां, सातवां और नौवां अक्षर ह्रस्व हो उसको कवीश्वर इन्द्रवज्रा छन्द कहते हैं ॥२१॥

उपेन्द्रवज्रा।

 यदीन्द्रवज्राचरणेषु पूर्वे भवन्ति वर्णा लघवः सुवर्णे ।
 अमन्दमाद्यन्मदने तदानीमुपेन्दवज्रा कथिता कवीन्द्रै:॥२२॥

 अन्वयः-हे सुवर्णे, यदि इन्द्रवज्राचरणेषु पूर्वे वर्णाः लघवः भवन्ति । हे अमन्दमाद्यन्मदने,तदानीं कवीन्द्रैः उपेन्द्रवज्रा कथिता ॥ २२ ॥

 अर्थः हे सुवर्णे-शोभनवणे, यदि - चेत्, इन्द्रवज्राचरणेषु-तन्नामकछन्दसः चतुर्षु चरणेषु पूर्वे - प्रथमे,