सामग्री पर जाएँ

पृष्ठम्:श्रुतबोधः.djvu/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
श्रुतबोधः


हंसी छन्दः।

मन्दाक्रान्तान्त्ययतिरहिता सालङ्कारे भवति यदि सा । तद् विद्वद्भिध्रुर्वमभिहिता ज्ञेया हंसी कमल- बदने ॥ १९ ॥

 अन्वयः :-हे सालङ्कारे यदि मन्दाक्रान्ता अन्त्ययति रहिता भवति । हे कमलवदने तद्धिद्वद्भिः ध्रुवं अभिहिता सा हंसी ज्ञेया ॥ १६ ।।

 अर्थः-हे सालङ्कारे-भूषणभूषिते, यदि-चेत्, मन्दाक्रान्ता-तन्नामकं छन्दः, अन्त्ययतिरहिता-सप्ताक्षरविश्रामरहिता, अर्थात् दशाक्षरपादरचिता,भवति-जायते, हे. कमलबदने,कमलवत्-सौन्दर्यसौरभादिगुणैः कमल सदृशं वदनं - मुखं यस्या स्तत्सबुद्धौ, विद्वद्भिः-पण्डितैः ध्रुवं-निश्चयेन अभिहिता-प्रतिपादिता सा-हंसी- तदाख्यं छन्दः-ज्ञेया-बोध्या ॥ हंसी. च. अ. १०

ग० म, भ, न, गु, यतिः ४, ६,sss,sII,III, sII ॥१९॥

 भाषा-हे अलङ्कार धारण करनेवाली ! हे कमलसदृश मुखवाली । जब मंदाक्रान्ता अन्त्ययति (विश्राम) रहित हो तो पण्डित जनों से कहा हुआ निश्चयसे उसको हंसीछन्दजानना,