पृष्ठम्:श्रुतबोधः.djvu/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
center
श्रुतबोधः

श्रुतबोधः-

अर्थ:-हे तन्वि-कोमलाङ्गि, यत्र-यस्मिन् पद्ये,आद्यं-आदिभवं चतुर्थं-तुर्यं, पञ्चम, षष्ठं-तत्संख्याकं, अन्त्यं-दशमं, उपान्त्यं-अन्त्यसमीपं नवमं च (अक्षरम्)गुरुः-दीर्घं स्यात्-भवेत्। तथा इन्द्रियबाणे:-पञ्चभिः २ अक्षरैः विरामः-विश्रामः भवेत्, सा-असौवृत्तिः, चम्पकमाला-तदाख्यायिका, वृस्तिकथनीया-वक्तव्या,॥ चम्पकमाला च० अ० १० ग० भ म, स, गु, यतिः, ५, ५, s।।, sss, IIs, s, ॥१५॥

 भाषा -हे कृशाङ्गि! जिस छन्द में पहिला, चौथा, पांचवां छठवां अन्त्य का अर्थात् दशवां और अन्त्य के पास का अर्थात् नौवां अक्षर गुरु हो तथा पांच पांच वणों पर जिसमें विराम हो उसको चम्पकमाला छंद कहना चाहिये ॥ १५ ॥

मणिबन्ध छन्दः।

 चम्पकमाला यत्र भवेदन्त्यविहीना प्रेमनिधे ।
 छन्दसि दक्षा ये कवयस्तन्मणिबन्धं ते ब्रुवते ॥१६॥

 अन्वयः--हे प्रेमनिधे ! यत्र चम्पकमाला अन्त्यविहीना भवेत्, ये कवयः छन्दसि दक्षाः ( सन्ति ) ते तत् मणिबन्धं ब्रुवते,॥

 अर्थ:-प्रेम्णोऽनुरागस्य निधिरिव निधिस्तत्सम्बुद्धौ हे प्रेम निधे, यत्र-वृत्तौ चम्पकमाला-तदाख्यं छन्दः, अन्त्य