स्यात्, विद्वद्वृन्दै सो विद्युन्माला व्याख्याता॥१४॥
अर्थ:-वीणेव वाणी यस्यास्तत्सम्बुद्धौ हे वीणावाणि । यस्यां-वृत्तौ, सर्वे वर्णाः-निखिलान्यक्षराणि,दीर्घा:-द्विमात्रिकाः भवेयुः । ( तथा ) वेदैर्वेदः-चतुर्भिश्चतुर्भिः(अक्षरैः)विश्रामः-यतिः, स्यात्-भवेत् , विद्वद्वृन्दैः-पण्डितसमूहैः, सा-असौ, विद्युन्माला-तन्नामकं वृत्तं, व्याख्याना-कथिता ॥१४॥ च० अ० ८, ग० म, म, गु,गु, यतिः ४,४,sss, sss, s,s,
भाषा-हे वीणा के समान मधुर भाषण करनेवाली !जिस छन्द में सम्पूर्ण वर्ण दीर्घ हो और चार २ अक्षरों पर विराम अर्थात् ठहराव हो ऐसे श्लोक को पण्डित जन विद्युन्माला छन्द कहते हैं ॥ १४॥
चम्पकमाला छन्दः।
तन्वि गुरु स्योदाद्यचतुर्थं पञ्चमषष्ठं चान्त्यमुपान्त्यम् ॥
इन्द्रियबाणैर्यत्र विरामः सा कथनीया चम्पकमाला॥ १५॥}}
अन्वयः-हे तन्वि, यत्र आद्यचतुर्थम्,पञ्चमषष्ठम्. अन्त्यम्, उपान्त्यं च (अक्षरम् ) गुरुः स्यात् । इन्द्रियबाणैः ( यत्र ) विराम: (स्यात्)सा चम्पकमाला कथनीया ॥१५॥