पृष्ठम्:श्रुतबोधः.djvu/१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
श्रुतबोधः


प्रमाणिका नगस्वरूपिणी।

 द्वितुर्यषष्ठमष्टमं गुरु प्रयोजितं यदा ।
 तदा निवेदयन्ति तां बुधा नगस्वरूपिणीम्॥१३॥

 अन्वयः-- यदा, द्वितुर्यषष्ठम्, अष्टमम्,(अक्षरम्) प्रयोजितं गुरुः(स्यात् ) तदा, बुधाः ताम्, नगस्वरूपणी निवेदयन्ति ॥ १३ ॥

 अर्थः--यदा-चेत्, द्वितुर्यषष्ठम्-द्वितीयं चतुर्थषष्ठमष्टमं च (अक्षरम्) प्रयोजितं--प्रयोगीकृतं गुरु:-दीर्घं(स्यात् ) तदा, बुधाः--पण्डिताः तां नगस्वरुपिणीं--तन्नामधेयं वृत्तं, निवेदयन्ति--प्रतिपादयन्ति ॥ १३ ॥

च. अ.८ग. ज, र, ल, गु ।s|, SIS, I,S,

 भाषा--जिस छन्द में दूसरे, चौथे, छठवे और आठवे अक्षर का दीर्घ प्रयोग किया जाता है इसको पण्डित लोग नगस्वरुपिणी छन्द कहते हैं ॥ १३॥


विद्युन्माला छन्दः ।


 सर्वे वर्णा दीर्घा यस्यां विश्रामः स्याद्वेदैर्वेदैः ।
 विद्वद्वृन्दैर्वीणावाणि व्याख्याता सा विद्युन्माला ॥१४॥

अन्वयः हे वीणावाणि ! यस्यां सर्वे वर्णाः दीर्घाः (स्युः)। वेदैर्वेदैः(वर्णैः) विश्रामः।