पृष्ठम्:श्रुतबोधः.djvu/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
संस्कृत तथा भाषाटीकासहितः


 भाषा-जिस श्लोक के चारो चरणों में पाञ्चवां अक्षर लघु हो तथा द्वितीय और चतुर्थ चरण में सातवां अक्षर लघु हो और चारो चरणों में छठवां अक्षर गुरु हो तो उसको पद्यछंद कहते हैं ॥ ११॥


माणवकं छन्दः।

 आदिगतं तुर्यगतं पञ्चमकं चान्त्यगतम् ।
 स्याद्गुरु चेत्सङ्कथितं माणवकाक्रीडमिदम्॥१२॥

 अन्वयः-चेत्, आदिगतं तुर्यगतं पञ्चमकं अन्त्यगतं च (अक्षरम् ) गुरुः स्यात्, इदम् माणवकाक्रीडं सङ्कथितम् ॥ १२ ॥


 अर्थः-चेत-यदि आदिगतं -प्रथमाक्षरं, तुर्यगतं-चतुर्थम्, पञ्चमकम्-पञ्चमम्, अन्त्यगतं-अन्त्ये वतर्मानं च (अष्टमम् )गुरु:--दीर्घं,स्यात्-भवेत्। इदं-एतत्,माणवकाक्रीडम्--एतन्नामकं छन्दः, ( कविभिः ) सङ्कथितम्-प्रोक्तम् ॥ १२॥ माणवकं चरणा ८ ग०भ, त,ल,गु, S||, ss|, I, S,

भाषा-जिस छन्द में पहिला चौथा पांचवां और अन्त्य (अष्टम ) का अक्षर गुरु हो उसको माणवकाकाड़ छंद कहते हैं ॥ १२ ॥