पृष्ठम्:श्रुतबोधः.djvu/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
श्रुतबोधः


 भाषा-जिस श्लोक के चारों चरणों में छटवां अक्षर गुरू तथा पांचवां अक्षर लघु हो, तथा द्वितीय और चतुर्थ चरण में सातवांअक्षर ह्रस्व हो परन्तु प्रथम और तृतीय चरणमें सातवां अक्षर दीर्घ हो तो उसको अनुष्टप् छंद कहते हैं ॥१०॥

पद्यछन्दो लक्षणम् ।

  पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
  षष्ठं गुरु विजानीयादेतत्पद्यस्य लक्षणम् ॥११॥

 अन्वयः-सर्वत्र पञ्चमम, लघु, द्विचतुर्थयोः(पादयोः) सप्तमम् (लघु) षष्ठं गुरु विजानीयात्, एतत् पद्यस्य लक्षणमस्ति ॥ ११॥

 अर्थः-( यत्र वृत्तौ ) सर्वत्र-चतुर्षु पादेषु, पञ्चममक्षरं लघु-अगुरु (तथा ) द्विचतुर्थयो:-द्वितीयचतुर्थपादयोः सप्तममक्षर, लघु-अगुरु भवति, सर्वत्र षष्ठं-तत्सङ्ख्याकं गुरु-दीर्घं विजानीयात्-बोद्धव्यम्, एतत्-इदं-पद्यस्य-तदाख्यछ्न्दसः लक्षणं-स्वरूपमस्ति । पद्यं,चरणाक्ष० ८ गणनियमो नास्ति ॥ ११ ॥