पृष्ठम्:श्रुतबोधः.djvu/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११
संस्कृत तथा भाषाटीका सहितः


तुर्यम्-चतुर्थमकं, पञ्चमकं- पञ्चम(अक्षरं)लघु-ह्रस्वं,स्यात्-भवेत् (तदा) हे मृगनेत्रे-चञ्चलाक्षि! विद्वद्भिः-पण्डितैः सा-असौ मदलेखा-तन्नामकं छन्दः, पोक्ता-कथिता। मदलेखा चरणाक्षम् ७ ग० म, स, गु, sss, ss||, || ॥९॥ भाषा-हे बाले जिस श्लोक में चौथा पांचवां अक्षर लघु हो,हे मृगनेत्रे पण्डित लोग उसको मदलेखा छन्द कहते हैं ॥ ॥९॥

अष्टाक्षरजाति ( अनुष्टुवादि)छन्दः।

 श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम् ।
 द्विचतुष्पादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः।। १०॥

 अन्वयः-श्लोके सर्वत्र षष्ठं गुरु, पञ्चमं लघु, दिचतुष्पादयोः सप्तमम्, ह्रश्वम्, अन्ययोः (सप्तमम् ) दीर्घम् ज्ञेयम् ॥ १० ॥

 अर्थः-श्लोके-पद्ये (अनुष्टुबि) सर्वत्र-चतुर्ष्वपि पादेषु, षष्ठम्-तदक्षरं, गुरु-दीर्घ, ज्ञेयम्-बोध्यम् पञ्चममक्षरं, लघु--एकमात्रिकं, तथा द्विचतुष्पादयोः-द्वितीयचतुर्थचरणयोः, सप्तमम्-सप्तममक्षरम्, ह्रस्वम्-लघुज्ञेयम्,अन्ययोः-प्रथमतृतीयपादयोः सप्तममक्षरं दीर्घं-द्विमात्रिकं ज्ञेयम्|