पृष्ठम्:श्रुतबोधः.djvu/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
श्रुतबोधः


घनकुचयुग्मे शशिवदनासौ ॥८॥

 अन्वयः-हे घनकुचयुग्मे (यत्र)चतुष्कं अगुरु भवति, द्वौ गुरू (भवतः) असौ शशिवदना (ज्ञेया)॥

 अथ:-हे घनकुचयुग्मे । घनं-कठिनं कुचयुग्मं-स्तनयुग्मं यस्यास्तत्सम्बुद्धौ (यस्यां वृत्तौ) चतुष्कं-चतुःपादेषु आदितो वर्णचतुष्टय अगुरु-लघु, भवति-जायते-द्वौ पञ्चमषष्ठौ, गुरु-अलघू ( भवतः ) (तदा) असौ-सा, शशिवदना बोध्या॥८। चरणाक्ष० र्द ग०न-य- ॥।ऽऽ॥   भाषा-हे कठिन कुचयुग्म वाली ! जिस छन्द में पहले चार अक्षर लघु और बाद के दो अर्थात् पांचवां और छठवां अक्षर गुरु हों उसको शशिवदना छंद कहते हैं ॥ ८॥

मदलेखाछन्

 तुर्यं पञ्चमकं चेद्यत्र स्याल्लघु बाले
 विद्धद्भिर्मृगनेत्रे प्रोक्ता सा मदलेखा॥९॥

 अन्वयः- हे बाले चेत् यत्र तुर्यम् पञ्चमकम् (अक्षरम् ) लघु स्यात् । हे मृगनेत्रे विद्वद्भिः सा मदलेखा प्रोक्ता ॥९॥

अर्थ:-हे बाले-नवयौवने ! चेत्-यदि,यत्र-यस्यां वृत्तौ