पृष्ठम्:श्रुतबोधः.djvu/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
संस्कृत तथा भाषाटीकासहितः-


छन्द के उतरार्ध के समान हो, उसे बड़े २ कवीश्वर लोग उप- गीति छंद कहते हैं अर्थात् जिसके प्रथम तृतीय चरण में बारह व द्वितीय चतुर्थ में पन्द्रह मात्रा हो उसे उपगीति छंद कहते हैं॥

अक्षरपङ्क्तिछन्दः।

आद्यचतुर्थं पञ्चमकं चेत् ।


यत्र गुरु स्यात्साक्षरपङ्क्तिः ॥ ७ ॥

 अन्वयः-चेत् यत्र आद्यचतुर्थ पञ्चमकं ( अक्षरम् ) गुरुः स्यात् सा अक्षरपङ्क्तिः (ज्ञेया)

 अर्थः-चेत् यदा यत्र वृत्तौ, आद्य-प्रथमं, चतुर्थं -तुर्यं पञ्चमकं (अक्षर) गुरुः-दीर्घं स्यात्-भवेत्, सा- अक्षरपङक्ति,-अक्षरेति पादपूरणार्थं पङ्क्तिरिति नामकं छन्दो बोध्यम् । अक्षरपङक्ति चरणाक्षराणि ५ग०भ,गु,गु,ऽ।।, ऽ, ऽ,

भाषा-जिस छंद में पहिला चौथा और पांचवां अक्षर गुरु ( दीर्घ) हो उसको अक्षरपंक्ति छन्द कहते हैं ॥ ७ ॥

शशिवदनाछन्दः।

अगुरु चतुष्कं भवति गुरू द्वौ।