पृष्ठम्:श्रुतबोधः.djvu/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७
संस्कृत तथा भाषाटीका सहितः


विहीना (सर्वाङ्ग सम्पन्नापि ) अन्त्येन-दशमाक्षरेण विहीना-रहिता, भवेत् -स्यात्, ये कवयः-ये काव्यज्ञाः छन्दसि-छन्दोविषये, दक्षा:-चतुराः ( सन्ति ) ते-अमी, तत् मणिबन्धं-तन्नामकं छन्दः, ब्रुवते-कथयन्ति ॥

मणिबन्धम्, च० अ० ९, ग० भ,म स० यतिः ५,४s||,sss, ||s, ॥१६॥

 भाषा-हे प्रेमनिधे ! जिस छन्द में अन्त्य अक्षर से रहित चम्पक माला का लक्षण पाया जाता हो उसको छन्दशास्त्र में दक्ष कवि लोग मणिबंध छन्द कहते हैं ॥ १६ ॥

शालिनी छन्दः।

 ह्रास्वो वर्णो जायते यत्र षष्ठः
 कम्बुग्रीवे तद्वदेवाष्टमान्त्यः ।
 विश्रामः स्यात्तन्वि वेदैस्तुरङ्गै
 स्तां भाषन्ते शालिनी छान्दसीया ॥१७॥

 अन्वयः-हे कम्बुग्रीवे, यत्र षष्ठः,तद्वदेव,अष्टमान्त्यः वर्णः ह्रस्वः जायते । हे तन्वि (यत्र) वेदैः तुरङ्गः विश्रामः स्यात्, छान्दसीयाः तां शालिनी भाषन्ते ॥ १७॥

 अर्थ:-हे कम्बुग्रीवे। कम्बो:-शङ्खस्य ग्रीवेव ग्रीवा यस्यास्त-