सामग्री पर जाएँ

पृष्ठम्:श्री बहुरूपगर्भस्तोत्रम्.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ॐ श्रीबहुरूपगर्भस्तोत्रम् । ॐ नमः स्वच्छन्दभैरवाय। ब्रह्मादिकारणातीतं स्वशक्त्यानन्दनिर्भरम् । नमामि परमेशानं स्वच्छन्दं वीरनायकम् ।।१।। कैलासशिखरासीनं देवदेवं जगद्गुरुम्। पप्रच्छ प्रणता देवी भैरवं विगतामयम् ॥२।। श्रीदेव्युवाच प्रायश्चित्तेषु सर्वेषु समयोल्लङ्घनेषु च । महाभयेषु घोरेषु तीव्रोपद्रवभूमिषु ।।३।। छिद्रस्थानेषु सर्वेषु सदुपायं वद प्रभो। येनायासेन रहितो निर्दोषश्च भवेन्नरः ।।४।। श्रीभैरव उवाच शृणु देवि परं गुह्य रहस्यं परमाद्भुतम् । सर्वपापप्रशमनं सर्वदुःखनिवारणम् ॥५॥