सामग्री पर जाएँ

पृष्ठम्:श्री बहुरूपगर्भस्तोत्रम्.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीगुरवे शिवाय नमः अस्त्यस्मिन्महसां महानिधिरसौ देवो विवस्वान् महान् यस्मिजाग्रति जाग्रतीव रजनी- सुप्ता इमे जन्मिनः। किन्त्वेका महती ततो विजयते श्रीदैशिकाङघ्रिद्युति- र्यद्भासाच्छुरितं चिरन्तनतमो हित्वैव जागर्ति सत् ॥१॥ ऊर्जस्य शुक्ले च तिथौ चतुर्थ्यां जगज्जिगीषून् स्वत ऊर्जयन्तः । आविर्बभूवुर्महताबकाकाः काश्मीरकण्डाभिधजन्मभूमौ ॥२॥ येऽस्माननेकानभिधाय दिव्यं ज्ञानञ्च जग्मुनिजधाममध्ये । तपस्य शुक्लस्य तिथौ द्वितीये सूर्याब्जयोः सन्धिमयेऽप्यनेहसि ॥३॥