सामग्री पर जाएँ

पृष्ठम्:श्री बहुरूपगर्भस्तोत्रम्.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(२१) अद्यापि येऽस्मानभिबोधयन्ति प्रयाणरूपेण निजेन कर्मणा। प्रकाशरूपप्रथितैकधाम्नि रवीन्दुमध्ये जहतः शरीरम् ।।४।। यज्जमना शर्मणगोष्यवात्स्य- गोत्रं तथागोत्रमवापि लोके । अभ्युन्नति लोकहितैकहेतुं सर्वासु दिक्षु प्रसरत्प्रभावाम् ।।५।। तानद्य सर्वे वयमाविशन्तो गुरून्स्मरन्तो मनसाथ वाचा। विशुद्धभक्त्या प्रणता नमामः स्थिताञ्च ज्ञानप्रभयागतानपि ।।६।। तज्ज्ञानगोत्रे गुरवश्चकासति ज्ञानप्रभाभिः प्रसृताभिरद्य । श्रीलक्ष्मणाख्या नमतां जनानां दृष्ट्यैव दृष्टेस्तमसां विघातकाः ।।७।। गुरुशिष्यस्वरूपेण दृश्यते यद्यपि द्विधा।