सामग्री पर जाएँ

पृष्ठम्:श्री बहुरूपगर्भस्तोत्रम्.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१७) कौलाख्ये शैवशास्त्रे यः विग्रहीव कलौ युगे । सन्तारयति ज्ञानस्य पोतेन शरणागतान् ।।६।। अवाप्तुकामो भवदाश्रयं हि विषण्णचेता विभवाब्धिमग्नः । त्वत्पूतपादाब्जपरागकांक्षी द्वारे तव प्राञ्जलिरागतोऽस्मि ।।७।। धुनोति वायुर्हि यथा महीरुहान् इयं तथा दुष्प्रकृतिर्मनुष्यान् । परं भवद्दर्शनवातपालितान् नरान् समर्थोऽस्ति न कोऽपि धर्षितुम् ।।८।। अल्पज्ञान् कुजनान् धीमान् कौलाचारविवर्जितान् । नवाभिनवकैर्भावैः प्रपूरयति मद्गुरुः ॥६॥ त्वद्वाक्यतन्त्र्योद्यत रम्यनादैः मनोज्ञभावैः रसपूरितं सत् । स्वान्तं मदीयं रसभावहीनं प्राप्नोत्यनाख्यां स्थितिमद्वितीयाम् ।।१०।।