सामग्री पर जाएँ

पृष्ठम्:श्री बहुरूपगर्भस्तोत्रम्.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथ मखनलालकोकिलविरचिता श्रीपादुकापुष्पमाला । as श्रीगुरवे नमः मद्धृत्स्थं सुभगाकारं सर्वसौख्यकरं परम् । भवतापहरं शूरं वरेण्यं विदुषां मतम् ।।१।। महनीयाकृतिं देवं श्रीगुरुं परमं विभुम् । लक्ष्मणं लक्षणैर्युक्तं प्रणौमि सर्वदं सदा ।।२।। [युगलकं] दासोऽहमस्मि मूढोऽहं त्वद्दयावञ्चितः खलु । कृपाकटाक्षपूरैस्त्वं पूरय विरसं मनः ।।३।। दर्श दर्श भवद्रूपं तृणमदीया न शाम्यति । श्रावं श्रावं भवत्कीर्ति शुश्रूषा नापक्षीयते ।।४।। स्मारं स्मारं भवन्नाम जिगीषा नापचीयते । पायं पायं भवद्वाक्यं मत्पिपासा प्रवर्धते ॥५।।