सामग्री पर जाएँ

पृष्ठम्:श्री बहुरूपगर्भस्तोत्रम्.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१४ ) रूपातीत नमस्तुभ्यं नमस्ते बहुरूपिणे । त्र्यम्बकाय त्रिधामान्तश्चरिणे चित्रचक्षुषे ।।३१।। पेशलोपायलभ्याय भक्तिभाजां महात्मनाम् । दुर्लभाय मलाक्रान्तचेतसां तु नमो नमः ।।३२।। भवप्रदाय दुष्टानां भवाय भवभेदिने । भव्यानां तन्मयानां तु सर्वदाय नमो नमः ॥३३॥ अणूनां मुक्तये घोरघोरसंसारदायिने । घोरातिघोरमूढानां तिरस्कर्त्रे नमो नमः ।।३४।। सर्वकारणकलापकल्पितो- ल्लाससंकुलसमाधिविष्ठराम् । हार्द कोकनदसंस्थितामपि तां प्रणौमि शिववल्लभामजाम् ॥१॥ सर्वजन्तुहृदयाब्जमण्डलो- द्भूतभावमधुपानलुम्पटाम् । वर्णभेदविभवान्तरस्थितां तां प्रणौमि शिववल्लभामजाम् ।।२।। इत्येवं स्तोत्रराजेशं महाभैरवभाषितम् । यौगिनीनां परं सारं न दद्याद्यस्य कस्यचित् ॥१॥