सामग्री पर जाएँ

पृष्ठम्:श्री बहुरूपगर्भस्तोत्रम्.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३ ) समस्तव्यस्तसंग्रस्त रश्मिजालोदरात्मने । नमस्तुभ्यं महामीनरूपिणे विश्वगर्भिणे ॥२३॥ रेवारणिसमुद्भूतवह्निज्वालावभासिने । घनीभूतविकल्पात्मविश्वबन्धविलापिने ॥२४।। भोगिनोस्यन्दनारूढिप्रौढिमालब्धगर्विणे । नमस्ते सर्वभक्ष्याय परमामृतलाभिने ।।२५।। णफकोटिसमावेशभरिताखिलसृष्टये नमः शक्तिशरीराय कोटिद्वितयसङ्गिने ॥२६॥ । महामोहमलाक्रान्तजीववर्गावबोधिने महेश्वराय जगतां नमः कारणबन्धवे ।।२७।। स्तेनोन्मूलनदक्षैकस्मृतये विश्वमूर्तये। नमस्तेऽस्तु महादेवनाम्ने परस्वधात्मने ॥२८॥ रुग्द्राविणे महावीर्यरुरुवंशविनाशिने । रुद्राय द्राविताशेषबन्धनाय नमोऽस्तु ते ॥२६॥ 1 द्रवत्पररसास्वादचर्वणोद्युक्तशक्तये नमस्त्रिदशपूज्याय सर्वकारणहेतवे ॥३०॥