सामग्री पर जाएँ

पृष्ठम्:श्री बहुरूपगर्भस्तोत्रम्.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१२) रेवद्वराय रुद्राय नमस्ते रूपरूपिणे । परापरपरिस्पन्दमन्दिराय नमो नमः ।।१५।। भरिताखिल विश्वाय योगिगम्याय योगिने। नमः सर्वेश्वरेशाय महाहंसाय शम्भवे ।।१६।। चर्चाय चर्चनीयाय चर्चकाय चरायते । रवीन्दुसन्धिसंस्थाय महाचक्रेश ते नमः ।।१७।। सर्वानुस्यूतरूपाय सर्वाच्छादकशक्तये। सर्वभक्षाय शर्वाय नमस्ते सर्ववेदिने ॥१८॥ रम्याय वल्लभाक्रान्तदेहार्धाय वियोगिने । नमः प्रपन्नदुष्प्रापसौभाग्यफलदायिने ।।१६।।

तन्महेशाय तत्त्वार्थवेदिने भवभेदिने । महाभैरवनाथाय भक्तिगम्याय ते नमः ।।२०।। शक्तिगर्भप्रबोधाय शरण्यायाशरीरिणे । शान्तिपुष्ट्यादिसाध्यार्थसाधकाय नमोऽस्तु ते।।२१।। । रवत्कुण्डलिनीगर्भप्रबोधप्राप्तशक्तये उत्स्फोटनापटुप्रौढ़परमाक्षरमूर्तये ॥२२॥