सामग्री पर जाएँ

पृष्ठम्:श्री बहुरूपगर्भस्तोत्रम्.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

0 (१०) अथ गायत्री Js ॐ बहुरूपाय विद्महे कोटराक्षाय धीमहि तन्नोऽघोरः प्रचोदयात् ॥३॥ हूं मूल 4 6. ओम अघोरेभ्योऽय घोरेभ्यो घोरघोरतरेभ्यश्च सर्वतः शर्व सर्वेभ्यो नमस्ते रुद्ररूपेभ्यः।।१०८।। 2) (५७ ओं नमः परमाकाशशायिने परमात्मने । शिवाय परसंशान्तनिरानन्दपदाय ते ॥१॥ अवाच्यायाप्रमेयाय प्रमात्रे विश्वहेतवे। महासामान्यरूपाय सत्तामत्रैकरूपिणे ॥२॥ घोषादिदशधाशब्दबीजभूताय शम्भवे । नमः शान्तोग्रघोरादिमन्त्रसन्दर्भगर्भिणे ॥३।। रेवतीसङ्गविस्रम्भसमाश्लेषविलासिने । नमः समरसास्वादपरानन्दोपभोगिने ॥४॥ भोगपाणे नमस्तुभ्यं योगीशैः पूजितात्मने । द्वयनिर्दलनोद्योगसमुल्लासितमूर्तये ||५|| । थरत्प्रसरविक्षोभविसृष्टाखिलजन्तवे नमो मायास्वरूपाय स्थाणवे परमेष्ठिने ।।६।।