सामग्री पर जाएँ

पृष्ठम्:श्री बहुरूपगर्भस्तोत्रम्.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(6) नातः परतरा काचित्सम्यक्प्रत्यङ्गिरा प्रिये । इयं समयविद्यानां राजराजेश्वरीश्वरि ॥१४॥ परमाप्यायनं देवि भैरवस्य प्रकीर्तितम् । प्रीणनं सर्वदेवानां सर्वसौभाग्यवर्धनम् ॥१५॥ स्तवराजमिमं पुण्यं शृण्वष्वावहिता प्रिये ॥१६॥ अस्य श्रीबहुरूपभट्टारकस्तोत्रस्य, श्रीवामदेव ऋषिः, अनुष्टुप्छन्दः, श्रीबहुरूपभट्टारको देवता, आत्मनो वाङ्मन:- कायोपाजितपापनिवारणार्थं चतुर्वर्गसिद्धयर्थे पाठे विनियोगः । अघोरमन्त्रेण न्यासं कृत्वा प्राणायामः कुर्यात् । अथ ध्यानम् । वामे खेटकपाशशाङ्गं विलस- द्दण्डं च वीणाण्टिके बिभ्राणं ध्वजमुद्गरौ स्वनिभदे- व्यङ्कं कुठारं करे। दक्षेस्यङ्कुशकन्दलेषुडभरू- न्वज्रत्रिशूलाभयान् रुद्रस्थं शरवक्त्रमिन्दुधवलं स्वछन्दनाथं स्तुमः ॥ ।