तथा न ते माधव तावकाः कचि-
द्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः॥
त्वयाभिगुप्ता विचरन्ति निर्भया
विनायकानीकपमूर्धसु प्रभो ॥३२॥
तथेति ॥ हे माधव, ते पूर्व तद्वत् प्रवृत्ता अपि तावकाः सन्तः
क्वचिदप्यारोहणावस्थायां भ्रश्यन्त्यपि न । पादोऽप्यधः प्रमादादपि
न पतति । आरुह्यमाणमार्गात स्वमार्गादपि न पतन्ति । मार्गस्यैव
तथात्वात् । यथा वस्तुरक्षकाणां मध्ये सुगन्धरक्षकः सौरभ्यं
प्राप्नोत्येव । लशुनादिरक्षकस्तद्विपरीतम् । यद्यपि स्वतन्त्रतया
भगवान्न सेवितस्तथापि भगवानिति तस्य पातो न भवत्येव ।
माधवेति सम्बोधनं, रात्रावपि विलासेन तत्रत्यानां दर्शनार्थम् ।
तेन विकर्मतुल्यत्वेऽपि सेवापरत्वाद् भगवदर्शनं नान्येपामिति
निरूपितम् । अत एव, तावकाः । अभ्रंशे हेतुः, त्वयि
बद्धसौहृदा इति ।। सौहृदं स्नेहो रज्जुस्थानीयः । स
स्वात्मानं जीवं भगवञ्चरणे बध्नाति । अतो युक्त एव
तेषामभ्रंशः । नन्वन्ये कालादयः कथं तान्न भ्रंशयन्ति,
भक्तिं वा न नाशयन्तीत्याशङ्क्याह ॥ त्वयाभिगुप्ता
विचरन्तीति ।। त्वया अभितो बाह्याभ्यन्तरसर्वभावेन
रक्ष्यमाणाः । बुद्ध्यादीनामपि नाशाऽसम्भवादन्यप्रवेशासम्भवाच
न भ्रश्यन्तीति युक्तम् । अत एव विचरन्ति । सर्वत्र
विशेषेण अनिन्दया सर्वेषु लोकेषु भ्रमन्ति ।
कालादिभयरहिता निर्भयाः । यदन्येषां त्यागस्थानं,
भयस्थानं तदेव तेषां परिभ्रमणस्थानमित्याह ॥
विनायकानीकपमूर्द्धस्विति ॥ विनायका विघ्नकर्तारः ।
विशब्देन विघ्ना उच्यन्ते । तेषां नायका जनका एव
भवन्ति । तेषामनीकं सेना। एकस्मिन् विघ्नार्थे प्रवृत्ते
तदशक्तौ तत्सहायार्थं बहवः समायान्ति । ते सर्वे-