तदेव तेषां परं पदम् । ये इति प्रसिद्धाः । अन्ये भगवद्रहिता
भगवद्विचारेण, यान् भगवानन्यान् मन्यते, न त्वात्मीयान् ।
अरविन्दाक्ष, कमलनयनेति सम्बोधनेनासुरपक्षपातात्तेष्वदर्शनं
सूचितम् । न हि रात्रौ कमले विकासोऽस्ति । येन
रात्रिस्थैरामोदोऽनुभूयेत । अतस्तेऽन्य एव । पूर्ववासनया आत्मानं
विमुक्तमेव मन्यन्त इति विमुक्तमानिनो, न तु विमुक्ताः । ज्ञानं
शास्त्रोत्थं विषयत्वेनात्मानं गृह्णाति । अतस्तस्मान्न फलं
विषयान्तरवत् । तस्याप्यभिमानजनकत्वात् । अत एव त्वयि
पूर्वस्थितो भावः साधनत्वेन परिग्रहात् । अस्तोऽस्तं गतो यो
भावस्तस्माद्धेतोर्न विशुद्धा बुद्धिर्येषाम् ।
अन्यथाऽहङ्कारादिसर्वदोषसम्बन्धे स्वान्तःकरणे दुष्टे जाते महान्तस्ते
कथं न जानीयुर्वयं दुष्टा इति । तदा तं मार्गं परित्यज्य यत्नमपि कुर्युः ।
अतः,अविशुद्धबुद्धय एव जाताः । परमशुद्ध्या च स्वदोषाः स्फुरति ।
ज्ञानस्य पूर्वावस्थैपा यत् स्वदोपस्फुरणम् । अतः कृच्छ्रेणाऽपि परं पदं
ब्रह्मभावमारुह्य अनादृतयुष्मदङ्घ्रयः पतन्त्येव । जीवस्य प्रकृतेरपि
परस्य प्राप्तौ उच्चगतेन निरालम्बने मार्गे भगवञ्चरणातिरिक्तमवलम्वनं
न सम्भवति । यतो वियद्विष्णुपदमेव । भगवचरणाऽवलम्बनेनैव
पुरुषस्योर्ध्वगमनम् । शृङ्खलद्वीपे श्रीपादारोहणे शृङ्खलापरित्यागवत् ।
अस्य चरणस्य ग्रहणादिक्लेशपरित्यागाभावायाह ।। अनादृतेति ॥
आदरणमात्रेणाऽपि न पतन्ति । आदर एव वा चरणस्थितौ हेतुः ॥ ३१ ॥
नन्वेवं सति भक्तिमार्गानुसारेणापि भगवद्भजने विकर्मादिना कालान्तरे पुनर्बुद्धिनाशप्रसङ्गः । साधनत्वेनैव भक्तिमार्गस्यापि स्वीकारात् । अतस्तुल्यत्वात् किं मार्गान्तरदूपणेनेत्याशङ्क्य स्मार्तस्यापि भगवन्मार्गस्य फलमाह-