पृष्ठम्:श्रीसुबोधिनी.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३
जन्मप्रकरणम्अध्यायः


स्वतन्त्राः नियामकाभावात् । कार्यं न करिष्यन्तीत्याशङ्क्य तद्रक्षका अपि समायान्ति । तेऽनीकपाः । तेऽपि बहवो भ्रंशयितुं समागताः । भगवदीयसुदर्शनादिभयादस्पृश्यैव निकटे तिष्ठन्ति। यथा प्रह्लादे । तेष्वेवारोहणार्थं भगवद्भक्ताः पादं प्रयच्छन्ति । तेपामधःपातनसामर्थ्याभावात् प्रतिष्ठाहेतव एव भवन्ति । यथा जडभरते मारणार्थमुद्यताःप्रतिष्ठाहेतव एव जाताः । तेषां मूर्द्धानः सर्वसामर्थ्यस्थानानि परमकाष्ठापन्नानि । एवं तेषां विचरणे हेतुः ॥ प्रभो इति ॥ एतत्सामर्थ्यं त्वदीयमेव । अतस्ते समर्था अपि न द्विपन्ति । अतो भक्तिमार्गान्मार्गान्तरं साधनतः फलतश्च न समीचीनमित्युक्तम् ।। ३२ ॥

 एवं स्मृतिमार्गेण भगवत्पक्षपातमुक्त्वा वैदिकमार्गेण पूर्ववदाह-


 सत्त्वं विशुद्धं श्रयते भवान् स्थितौ
 शरीरिणां श्रेयउपायनं वपुः ॥
 वेदक्रियायोगतपःसमाधिभि-
 स्तवार्हणं येन जनः समीहते ॥ ३३ ॥


 सत्त्वमित्यादि चतुर्भिः ॥ वेदो हि द्विविधः प्रवृत्तिनिवृत्तिमार्गप्रतिपादकः । तादृशोऽपि पुनः प्रत्येकं द्वेधा भिन्नैरधिकारिभिद्विविधः । तत्र प्रवृत्तावर्थावबोधोऽध्ययनमनुष्ठानं चेति ब्रह्मचारिणो गृहस्थस्य चाधिकारेण सिद्धम् । तप आत्मनि च स्थितिरुत्तमाश्रमस्थयोर्निवृत्तौ क्रमेणैव सिद्धम् । एतद्वेदानुसारेणाश्रमचतुष्टये धर्मानुष्ठानं दैत्यांशानामपि तुल्यमिति भगवान् सत्त्वमूर्तिः स्वसत्त्वं प्रकटीकृत्य सात्त्विकानेव तत्तद्धर्मेषु प्रेरयति, विपरीतांश्च निवर्तयति । अन्यथा आश्रमस्थेष्वेव केचिदध्ययनादिकं यथाशास्त्रार्थं कुर्वन्ति, केचिन्नेति व्यवस्था न