पृष्ठम्:श्रीसुबोधिनी.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५
जन्मप्रकरणम्अध्यायः


कर्माणि विधाः प्रकारा यस्य । तानि पञ्चेन्द्रियजन्यान्यपि उत्क्षेपणापक्षेपणप्रसारणाऽऽकुञ्चनगमनात्मकानि भवन्ति । अन्यत्रोत्क्षेपणाभावः । अथवा, अन्नमयादयः पञ्च । स वा एष पुरुषः पञ्चधा पश्चात्मेति श्रुतेः । ब्रह्माण्डविग्रहोऽपि तथा । अन्यत्र नानन्दः । षडात्मानो यस्य । षडिन्द्रियाण्यात्मत्वेन निरूपितानि । अयमात्मा विज्ञानमयः। ज्ञानं च षड्विधमुत्पत्त्या भिन्नम् । सप्त त्वगादयः त्वचो वल्कलादीनि यस्य । अष्टप्रकृतयो विटपाः शाखा यस्य । भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधेति ॥ नव देहच्छिद्राणि नवाक्षा यस्य । दश प्राणाश्छदानि यत्र । द्वौ जीवाऽन्तर्यामिणौ खगौ यत्र । एतस्माद्वैलक्षण्यमन्यत्र ज्ञातव्यम् ॥ हीति सर्वत्र युक्तयःसन्तीति ज्ञापितम् । आदिवृक्ष इति समष्टिरूपः॥२६॥

 एवं प्रमेयं निरूपितं भगवदात्मकम् । अत्रोपपत्तिं वदन् साधनरूपमाह-


 त्वमेक एवास्थ सतः प्रसूति-
 स्त्वं सन्निधानं त्वमनुग्रहश्च ॥
 त्वन्मायया संवृतचेतसस्त्वां
 पश्यन्ति नाना न विपश्चितो ये ॥२७॥


 त्वमेक एवास्येति ॥ अस्य जगतः सद्रूपस्य । अनेन मायावादादिपक्षा निराकृताः । ते हि वैनाशिकाः । असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरमिति वाक्यात्तेषामेव मते अस्य जगतोऽसत्यत्वम् । अन्यथा असतः अज्ञानकार्यस्य कत्र्ता भगवान् को वा स्यात् । तस्य सर्वस्यापि सद्भूपस्य त्वमेव प्रसूतिरुत्पत्तिस्थानम् । प्रकर्षण सूतिर्यस्मादिति । प्रसूतिपदेन पितराविवोत्पादकत्वं सूचितम् । त्वमेव सभ्यग् निधीयतेऽस्मिन्निति संनि-