धानं लयस्थानम् । त्वमेवानुगृह्यतेऽनेनेति पालकः।अत
उत्पत्तिस्थितिप्रलयकर्ता त्वमेव । अन्यथाक्रमेणैवं सूचयति,
भगवद्रक्षितो न नश्यतीति । नन्वेते गुणाभिमानिन एव
ब्रह्मादय उत्पत्यादावधिकारिणो, नाहमित्याशङ्क्याहुः ॥
त्वन्माययेति ॥ ये त्वन्मायया संवृतं सङ्कुचितं चेतो
मतिर्येषां ते त्वां नाना पश्यन्ति, न तु विपश्चितः ।
तत एव भगवन्तं परिच्छिन्नं जानन्ति । ये तस्यैव
मायासङ्कुचिता भवन्ति । अल्पेन हि ग्राहकेणाऽल्पमेव
गृह्यते । सर्ववस्तुग्रहणार्थं चित्तं पुष्कलमेव भगवत्सृष्टम् ।
मायया सङ्कोचाभावे कथं परिच्छिन्नं गृह्णीयात् । अत एव
त्वां नाना पश्यन्ति । परिच्छिन्नया दृष्ट्या गृहीतो देशो भिन्नतया
स्वीक्रियत इति मायामोहः । अत एव ये विपश्चितस्ते ब्रह्मादीन्
परस्परविलक्षणान् पश्यन्तोऽपि तत्तकार्यानुरोधेन तथाविधं
त्वामेव मन्यन्ते,न तु भिन्नं पश्यन्ति । ये इत्यन्ते तेषां माहात्म्य
निरूपणार्थ निर्देशः । अनेन सृष्टिस्थानां गुणैर्भिन्नानां
स्वकार्यसिद्ध्यर्थम् एत एव यथारुचि भगवद्रूपाः सेव्या इति
साधनमुक्तम् ।। २७ ॥
फलमाह-
बिभर्षि रूपाण्यवबोध आत्मन्
क्षेमाय लोकस्य चराचरस्य ॥
सत्त्वोपपन्नानि सुखावहानि
सतामभद्राणि मुहुः खलानाम् ॥ २८ ॥
बिभर्षीति ॥ त्वम् अवबोधे आत्मनि रूपाणि बिभर्पि ।
ये त्वां सेवन्ते पूर्वोक्तप्रकारेण तेषां रूपाणि ज्ञानरूपे आत्मनि
विभर्षि । सायुज्यं तेभ्यः प्रयच्छसि ॥ अथवा अवबोधे आत्मनि
शुद्धात्मसिद्ध्यर्थं रूपाण्यवताररूपाणि बिभर्षि येषु भक्ताश्चिद्रूप-