श्चतूरसः पञ्चविधः षडात्मा ॥
सप्तत्वगष्टविटपो नवाक्षो
दशच्छदी दिखगो ह्यादिवृक्षः ॥२६॥
एकायन इति ॥ इदं जगद् ब्रह्माण्डात्मकं वृक्षत्वेन
निरूप्यते । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं
पुरुषेण सर्वमिति श्रुतेर्भगवान् वृक्षरूपः । तस्माज्जायमानं
जगदपि वृक्षाऽऽत्मकमेव भवति । अनेन भगवतो महत्वं
निरूपितम् । यथा अश्वत्थादिवृक्षे एकस्मिन् कोटिशः
फलानि भवन्ति । सोऽपि तादृश एव । एवमनादिनिधनो
वृक्षो भगवान् । अत एव क्वचिद् ब्रह्माण्डनिर्माणं भगवत
एव भवति, कचित्तत्त्वद्वारा । अक्षरमत्र फलं तस्य तत्त्वान्यंशाः ।
बीजं ब्रह्माण्डमिति । शकुनिभक्षितमेव ततो निर्गतं फलतीति
तत्त्वानां चेतनरूपता निरूपिता । तत्र दैत्यादिकल्पे
बहुबीजयुक्तादपि फलादेको वृक्ष उत्पद्यते । अत एव
बाह्यादिशास्त्रेषु परमाणुभ्यो बहुभ्य एककार्योत्पत्तिनिरूपिता ।
पिप्पलादयोऽपि काकविष्ठातो जाता बहुभ्य एकं भवतीत्यध्यवसीयते ।
तद्व्यावृत्यर्थमाह ॥ एकमेव अयनं यस्येति ॥ अण्डं प्रकृतिरक्षरं वा ।
काल इत्यन्ये । अनेनायमादिरूपः सद्वृक्ष उक्तः ।
अतोऽसाविति परिदृश्यमानः प्रपञ्चो द्विफलः । द्वे फले
यस्य । सुखदुःखे अस्य फले । दैत्यानां तु दुःखमेव फलम् ।
ते फले नरकस्वर्गवाच्ये | नराणां कं सुखं विषयाऽऽत्मकं
स्वस्वरूपं गच्छतीति स्वर्गः । सृष्ट्यन्तरे सर्वे विषयिण
इत्यत्र तु द्विविधा अपि त्रयो गुणाः सत्त्वादयो मूलानि अध:
प्ररोहा यस्य । अत्र त्रिविधान्यपि कर्माणि भवन्ति । अन्यत्र
तामसान्येव । क्वचिद्वा राजसानि । सात्त्विकानि तु न भवन्त्येव।।
चत्वारो धर्मार्थकाममोक्षा रसा यस्य । अन्यत्रार्थकामावेव ॥ पञ्च