सत्यस्य सत्यमिति ॥ यथा पूर्णस्य पूर्णमादायति सत्यं सत्य एव
स्वाधिदैविके लीयते सत्य एवं प्रतिष्ठितं सत्यं फलम् । तच्च
आधिदैविकं सत्यं भगवानेव । अनेन यो भगवति प्रतिष्ठितः स
सत्यः । यः सत्ये प्रतिष्ठितः स सत्यद्वारा भगवति प्रतिष्ठितो
भविष्यतीत्युक्तम् । एवमुत्पत्तिस्थितिप्रलयप्रसङ्गे पञ्चविधं
सत्यमुक्तम् । एतावता त्रयोदशधा क्रियाशक्तिः सत्यत्वेन
निरूपिता। ज्ञानशक्तिं सत्यत्वेन निरूपयति ।। ऋतसत्ये
नेत्रे यस्येति ॥ ज्ञानशक्तिर्द्विविधा-प्रमाणबलेन, प्रमेयबलेन
च । प्रमाणं वेदः । प्रमेयं भगवद्धर्माः । ऋतं सूनृता वाणी ।
वेदः सत्यप्रतिपादकः । अतः सत्यनिरूपणप्रस्तावेऽपि
ऋतनिरूपणम् । ऋतसत्ये नेत्रे प्रापके यस्येति ।
भगवत्प्राप्तिर्द्वेधाऽपि भवतीत्युक्तम् । एवं शक्तिद्वयं सत्यत्वेन
निरूप्य धर्मिणं सत्यत्वेन निरूपयन्ति ॥ सत्यात्मकमिति ॥
सत्य एवात्मा स्वरूपं यस्य । यः सर्वानेव धर्मान् व्याप्य तिष्ठति ।
स आत्मा सत्यमबाधितं भगवतः सदूपम् । स्वार्थे कः ।
कं फलं वा । सत्यमात्मा कं सुखं च यस्य । सच्चिदानन्दरूपो
भगवान् चिदानन्दयोरपि सत्यरूपतेति तथोक्तम् । तादृशे च
जीवैः कर्त्तव्यं शरणगमनमेव । प्रपन्नाइतिबहुवचनं सर्वेषामेव
देवानां सत्यतया संरक्षार्थम् ॥२५॥
एवं प्रमाणरूपतामुक्त्वा प्रमेयरूपतामाह-
एकायनोऽसौ विफलस्त्रिमूल-
मानाधीना मेयसिद्धिरिति कारणान्तःपाति मानमिति तथा । पूर्वमज्ञस्य ज्ञानेन विषयस्वरूपमपि तदैव सिद्धं भूतमिति यतो भानम् । फलं विवृतावेव स्फुटं, सत्य एवेत्यादिना ॥ प्रमाणादिचतूरूपं भगवति प्रतिष्ठितं चेति पञ्चविधम् । पूर्वोक्तमष्टविधमेतत्पञ्चविधं चेति त्रयोदशधा । अग्रे शानशक्तिद्वयं धर्मी चेति षोडशधा ।।