पृष्ठम्:श्रीसुबोधिनी.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५
जन्मप्रकरणम्अध्यायः


सा देवकीति ।। पुरुषस्य हि तेजः स्वतन्त्रमिति विवेकादिसहभावाञ्चिन्तया नाऽभिभूयते । स्त्रियास्तु परतन्त्रं विवेकादिरहितमिति चिन्ताभिभवान्न शोभते । यद्यपि सा देवकी देवतारूपा सर्वजगतां निवासभूतस्य भगवतो निवासभूता अधिकरणभूता । न हि स्वस्मिन् विद्यमानेभ्यो लोमभ्यः स्वस्य भयं भवति । तथा भगवति सर्वमस्तीति न सर्वस्माद्भगवतो भयम् । स्वस्य तु सुतरामेव । जगतो भगवतश्च भगवन्निमित्तं च न भयम् । एतादृश्यपि सती नितरां न रेजे भगवञ्चिन्तया स्वस्य सर्वेषां च शोकहेतुर्जातेति बहिः । अन्तःकरणेऽपि चिन्तादिना मालिन्यात् । हेत्वन्तरमप्याह ॥ भोजेन्द्रगेहे कंसगृहे रुद्धा निगडैहीता बहिरागत्य सर्वसुखदायिनी न जाता । यथा कुण्डे ज्वलन्नप्यग्निर्भस्मना रुद्धोऽन्तर्ज्वाल एव भवति । एवमियमपि चिन्तादिना व्यापृता सम्यग् न प्रकाशयुक्ता जाता। स्वधमैरेवाऽस्फुरणे दृष्टान्तः । अन्यनिरोधेनास्फुरणे दृष्टान्तान्तरमाह ॥ सरस्वती ज्ञानखले यथा सतीति ॥ सती सन्मार्गप्रवर्तिनी सरस्वती भागवतादिरूपा ज्ञानखले ज्ञानवञ्चके अन्तः स्वस्यैव तोषं जनयति, न बहिःप्रकाशेन सर्वेषाम् । तथा कंसेन रुद्धा गृह एव प्रकाशमाना जाता, न बहिः । असती तु स्वतोऽपि न प्रकाशते । यस्तु स्वयं जानाति सद्विद्यां परोपकारजननीमधिकारिणेऽपि परस्मै न प्रयच्छति स ज्ञानखलः । तेन स्वाऽन्तरङ्गेष्वपि स्वस्मिन् भगवदाविर्भावस्य सङ्गोपनं मूच्यते॥१८॥

 येन सर्वेषां सुखदा न जाता, सा तस्यापि सुखदा न जातेत्याह-


 तां वीक्ष्य कंसः प्रभयाऽजितान्तरां
 विरोचयन्तीं भवनं शुचिस्मिताम् ।।