पृष्ठम्:श्रीसुबोधिनी.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


तथैव भगवन्तमात्मभूतं धृतवतीत्यर्थः । अनेन शुद्धमेव स्वरूपं वसुदेवाद्देवक्यामागतमित्युक्तम् । चैतन्यबीजमन्त्रपक्षा अल्पज्ञानां प्रतीत्यर्थमुक्ताः । वृद्धिराकाशस्येव क्रमेण मायोद्घाटनात्तदा मायाया भगवतश्च उभयोरविकृता शुद्धिरुपपन्ना भवति । तदपि न स्वप्रयत्नाद्धारणलक्षणाद् भगवन्तमानीय धृतवती । किन्तु स्वत एवागतमुद्यन्तमानन्दकरं चन्द्रं काष्ठा पूर्वा दिग् बिभर्ति । धारणं च मनस्त एव । अविकृतमनसेति ज्ञापयितुं तसिल प्रत्ययः । समाधाने धारणे च मन एव हेतुः ॥ १७ ॥

 यथा वसुदेवो भगवदावेशे स्फुरद्रूपो जातो, न तथा देवकी जावेत्याह-


 सा देवकी सर्वजगन्निवास-
 निवासभूता नितरां न रेजे ।
 भोजेन्द्रगेहेऽग्निशिखेव रुद्धा
 सरस्वती ज्ञानखले यथा सती ॥१८॥




 वृद्धिराकाशस्येवेत्यारभ्य, भवतीत्यन्तम् । यथा यथा भित्याद्याधरणापदारणं तथा तथा काशप्राकट्यं यथा तथा यावद्यावन्मायारूपं येन प्रकारेणापसार्येते तावत्तावत्तेन प्रकारेण भगवत्स्वरूपं प्रकटं भवतीति क्रमेणैव गर्भलक्षणाविर्भावस्तेनेतरगर्भेभ्यो भगवद्गर्भसम्बन्धिन्यपि बुद्धिर्देवक्या अविलक्षणोपपन्ना भवति । एवमेव यावता अंशेनेतोपसारणं तावतांशेन यशोदागर्भे मायाप्रादुर्भाव इति यशोदाया अप्यविकृता बुद्धिस्तथेत्यर्थः । अन्यथा त्वलौकिकत्वेन पूर्वं तल्लक्षणाभावे पश्चात् प्राकट्ये च यशोदादेवक्योवुद्धिर्विकृता भवेत् । तथा सति लीला न सम्पद्येतेति तथैव ज्ञेयमिति भावः। साकारव्यापकब्रह्मणस्तोकाकारमात्रावरणाऽपसारणेऽपसारितस्यापि तस्य तथाकारत्वं लोकन्यायेन सिद्धम्।अत्रावरणस्य व्यापकत्वेनाविशेषादू यशोदागर्भदेशेऽपि तत्प्राकट्ये नानुपपन्नं किञ्चित् ॥