आहेष मे प्राणहरो हरिगुहां
ध्रुवं श्रितो यन्न पुरेयमीदृशी ॥ १९ ॥
तां वीक्ष्येति ॥ प्रभयोपलक्षितां तां वीक्ष्य कंसः प्राह ॥
प्रभयैव ज्ञापिकया अजितः अन्तरा यस्याः, भगवानस्या मध्ये
वर्त्तत इति दृष्ट्वा प्रभयैव भवनं विरोचयन्तीम् । अजितत्वमपि
दर्शने ज्ञातमधृष्यत्वावगमात् । परमानन्दे हृदि प्रविष्टे प्राणी
सर्वदुःखनिवृत्तो भवतीति निश्चयादस्याः प्रसन्नवदनत्वमपि दृष्ट्वा
भगवानस्तीति निश्वितवानित्याह ॥ शुचिस्मितामिति ॥ शुचि
शुद्धं बाह्यविकाराऽजनकम् अन्तरानन्दोद्भूतं स्मितं यस्याः ।
भगवत्कान्तिर्बहिर्निःसृता तामन्तर्बहिर्गृहं च प्रकाशितवतीति ।
अतो भगवानस्तीति निश्चित्य तस्य प्रयोजनान्तराभावं प्रकरणेन
ज्ञात्वा वदति । मे प्राणहरो हरिरेष एवास्या उदरे प्रकाशते ।
ध्रुवं निश्चितम् । यत इयं पुरेव न, रूपेण सन्तोषादिना
च। नन्वत्र भगवांश्चेत् सर्वैः कथं न दृश्यते, तत्राह । गुहां श्रित
इति ॥ उदरे विद्यमानत्वं तस्य न घटते । तस्य अजीवत्वात् ।
तस्मादिदमुदरं गुहैव । गुहां प्रविष्टावात्मानाविति न्यायात् ।
अतो हरिरेव हरित्वादेव मे प्राणहरः ॥ १९॥
ततः किमत आह-
किमद्य तस्मिन् करणीयमाशु मे
यदर्थतन्त्रो न विहन्ति विक्रमम् ।।
स्त्रियाः स्वसुगुरुमत्या वधोऽयं
यशः श्रियं हन्त्यनुकालमायुः॥ २० ॥
किमद्य तस्मिन्निति ॥ तस्मिन् भगवति प्राणहरणकार्ये
वा उपस्थिते पूर्वप्रतीकाराणां वैयर्थ्यादद्य किं कर्त्तव्यमिति
विचारः। तूष्णी स्थिती प्राणान् हरिष्यत्येव । अत आशु मे किं