पृष्ठम्:श्रीसुबोधिनी.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


चतुर्भिश्च चतुर्भश्च चतुर्भिश्च त्रिभिस्तथा ।
षड्भिर्विराजते योऽसौ पञ्चधा हृदये मम ॥ २ ॥
दशमार्थः प्रकरणाध्यायार्थश्च विचार्यते ।
नवलक्षणलक्ष्यो हि कृष्णस्तस्य निरूपणात् ॥ ३ ॥
आश्रयः क्रमभावित्वान्निरोधो वेति संशयः । ।
लीलानिर्द्धारको ह्यर्थः क्रममात्रं तु दुर्बलम् ॥ ४ ॥

पुरुषोत्तममित्यर्थः । एतेन नारायणाद्वैलक्षण्यमुक्तं भवति । तत्रैका लक्ष्मीरत्रापरिमितास्ताः । तत्र क्षीराब्ध्यधिकरणके शेषे शेतेऽत्र तु हृदयात्मकशेषाधिकरणकलीलाक्षीराब्धौ शेते॥अत्रेदमाकूतम् । सर्वा ऽऽत्मभाववति हृदये सततभावनया प्रकटो यो रसात्मकः पुष्टिमार्गीयो लीलाब्धिः स्वयमेव कृतो यथा वृन्दारण्यप्रवेशवेणुकूजनादिः । तत्र पुष्टिमार्गार्यैर्भक्तैः स्वस्वरूपेण स्वलीलाभिः कटाक्षादिरूपाभिः तादृशम् । तेन नायिकानामपि प्रभुलीलामध्यपातित्वात् पृथक्तदुक्ति रनुपपन्नेति शङ्कानिरस्ता । यथा पुरि शयनं पुरुषस्योच्यते, तथात्र तत्तल्लीलानुरूपा स्थितिः शयनपदेनोच्यते । न तु निद्रा। तथा सति विविधनायिकालीलानामनुपयोगात्तत्सेवनोक्तिर्विरु द्ध्यते । नारायणे कमलवत् स्थायिभावात्मके स्वस्मिन् विचित्रन् भावानुत्पाद्य ब्रह्मवत्तादृशं कञ्चन प्रचुरं भावमुत्पादितवान् येन तल्लीलाविवरणात्मक मखिलरसात्मकं जगदाविरभूदिति । मूले शयनपदोक्त्या नारायणे तत्प्रसिद्धमिति तद्धर्मसाम्यमाचार्यैर्निरूपितम्। मूलेऽनुशयनशब्दस्य भावार्थकत्वपक्षे त्वनुशय्यतेऽनेनेत्यनुशयनमिति करणव्युत्त्पत्या ताभिः सहात्मनो निगूढभावकरणं येन स निरोधः । स्वकीयेषु स्वविषयकभावोत्पादनं यथा लीलया क्रियते सा निरोधशब्दवाच्ये- त्यर्थः । अथ प्रकरणार्थरूपं नमस्यन्ति ॥ चतुर्भिरिति । दशमस्कन्धे पञ्चप्रकरणानि सन्तीति पञ्चधा प्रकरणार्थरूपो मम हृदये यो विरा जते तं नमामीति सम्बन्धः । पञ्चरूपत्व प्रकटयन्ति ॥ आद्यं चतुर्भिरध्यायैः । द्वितीयं प्रमाणप्रमेयसाधनफलात्मकैश्चतुर्भिः प्रकरणैः। तथैव तृतीयम् । चतुर्थं त्रिभिः प्रकरणैः । पञ्चमं षड्भिरध्यायैः । एवं पञ्चधा यो विराजत इति सम्बन्धः ।