गर्भो बभूव देवक्या हर्षशोकविवर्द्धनः ॥ ४ ॥
हतेष्विति सार्द्धे न ।। देवक्याः षट्सु् बालेषु औग्रसेनिना
हतेषु सत्सु । भागिनेयान् हन्तीति पितृनाम्ना निर्देशः ।
अन्येषां हननमर्थसिद्धमेव । लोके हि भागिनेयोऽतिमान्यः।
षड्गुणास्तेन बुद्ध्या हता इति धर्मस्थानभूतोऽक्षरात्मा समागतः ।
तस्यापि मारणमाशङ्क्य परिहरति ॥ वैष्णवामिति ॥
विष्णोर्व्यापकस्य सर्वरक्षकस्य स्वरक्षायां सन्देहो नास्तीति ज्ञापितम् ।
सप्तम एव परमाऽवधिः । षड्गुणाः सप्तमो धर्मी च तदाधारभूतः।
पुरुषोत्तमस्तु ततो महान् । अतस्तब्धावृत्यर्थ, धामेति ॥ यतो
लोका यमनन्तं कालात्मकमाचक्षते । सोऽनन्तः सप्तमपर्याये
गर्भः प्रकटो बभूव । स चार्द्धप्रकटितानन्द इति देवक्या
हर्षशोकविवर्द्धनो जातः।महानिति हर्षः। तादृशोऽपि मारणीय
इति शोकः। प्रभाषस्यादर्शनात् ॥ ४ ॥ ॥ एवं सति भक्तेषु
दया स्थापितेति दयापरीतो भगवान् शीघ्रमुपायं कृतवानित्याह-
भगवानपि विश्वात्मा विदित्वा कसजं भयम् ॥
यदूनां निजनाथानां योगमायां समादिशत् ॥५॥
वर्द्धनो बभूवेत्यर्द्धन शीघ्रं भगवदुद्यमे हेतुरुक्तः । पूर्वं शोकवर्द्धनो
नासीत् । हतेषु तेषु अयमपि तथा भविष्यतीति ज्ञानेन तथा बभूव ।
तथाचेदं सर्वं बन्धनानन्तरं जातमिति तदेव पूर्वावधिर्यस्य तादृशं
चरित्रमाहेत्यर्थः । अत एवाग्रे वक्ष्यन्ति- षट्पुत्रवधात् पूर्वमेव
सङ्कर्षणगर्भ इति । आसुरहननं सङ्कर्षणगर्भविषयकं दुःखं च
भगवञ्चरित्रमेव । तर्हि हर्षवर्द्धनत्वमनुपपन्नमित्याशङ्क्य
तत्रोपपत्तिमाहुः ॥स चार्द्धेत्यादि ॥ पुरुषोत्तमस्यैव
पूर्णानन्दत्वान्मातुर्मनसि तदागमने तत्रानन्दाविर्भाव एवाभूत,
परस्य परं तादृशी नाभून्निरोधवशादिति
सरस्वतीदृष्टान्तेन वक्ष्यते । अस्यानन्दमयत्वेऽपि प्रभुसङ्गम
एव पूर्णानन्दप्राकट्यकरणं भवतीति तथा ॥